Sukta 10.113
तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान्मधुनो वि रप्शते । देवेभिरिन्द्रो मघवा सयावभिर्वृत्रं जघन्वाँ अभवद्वरेण्यः ॥
तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते । दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥
tám asya víṣṇur mahimā́nam ójasāṃśúṃ dadhanvā́n mádhuno ví rapśate | devébhir índro maghávā sayā́vabhir vṛtráṃ jaghánvāṃ abhavad váreṇyaḥ ||
Of him Vishnu, bearing the ray by strength, spreads out the greatness of the honeyed delight. With the gods as comrades Indra the bountiful, having slain Vritra, became the choice-worthy—fit to be chosen for the work.
तम् । अ॒स्य॒ । विष्णुः॑ । म॒हि॒मान॑म् । ओज॑सा । अं॒शुम् । द॒ध॒न्वान् । मधु॑नः । वि । र॒प्श॒ते॒ । दे॒वेभिः॑ । इन्द्रः॑ । म॒घऽवा॑ । स॒याव॑ऽभिः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒भ॒व॒त् । वरे॑ण्यः ॥तम् । अस्य । विष्णुः । महिमानम् । ओजसा । अंशुम् । दधन्वान् । मधुनः । वि । रप्शते । देवेभिः । इन्द्रः । मघवा । सयावभिः । वृत्रम् । जघन्वान् । अभवत् । वरेण्यः ॥tam | asya | viṣṇuḥ | mahimānam | ojasā | aṃśum | dadhanvān | madhunaḥ | vi | rapśate | devebhiḥ | indraḥ | magha-vā | sayāva-bhiḥ | vṛtram | jaghanvān | abhavat | vareṇyaḥ