Sukta 10.113
तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनु शुष्ममावताम् । यदैत्कृण्वानो महिमानमिन्द्रियं पीत्वी सोमस्य क्रतुमाँ अवर्धत ॥
तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावताम् । यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥
tám asya dyā́vāpṛthivī́ sa-cétasā víśvebhir deváir ánu śúṣmam āvatām | yád ait kṛṇvānáḥ mahimā́nam indriyáṃ pītvī́ sómasya krátumān avardhata ||
He—let Heaven and Earth of one accord, with all the gods, foster his force; when he went forth shaping his lordly greatness, having drunk of Soma, the wise-willed one increased.
तम् । अ॒स्य॒ । द्यावा॑पृथि॒वी इति॑ । सऽचे॑तसा । विश्वे॑भिः । दे॒वैः । अनु॑ । शुष्म॑म् । आ॒व॒ता॒म् । यत् । ऐत् । कृ॒ण्वा॒नः । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । पी॒त्वी । सोम॑स्य । क्रतु॑ऽमान् । अ॒व॒र्ध॒त॒ ॥तम् । अस्य । द्यावापृथिवी इति । सचेतसा । विश्वेभिः । देवैः । अनु । शुष्मम् । आवताम् । यत् । ऐत् । कृण्वानः । महिमानम् । इन्द्रियम् । पीत्वी । सोमस्य । क्रतुमान् । अवर्धत ॥tam | asya | dyāvāpṛthivī iti | sa-cetasā | viśvebhiḥ | devaiḥ | anu | śuṣmam | āvatām | yat | ait | kṛṇvānaḥ | mahimānam | indriyam | pītvī | somasya | kratu-mān | avardhata