Sukta 10.111
दूरं किल प्रथमा जग्मुरासामिन्द्रस्य याः प्रसवे सस्रुरापः । क्व स्विदग्रं क्व बुध्न आसामापो मध्यं क्व वो नूनमन्तः ॥
दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुराप॑: । क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ॑सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमन्त॑: ॥
dūráṃ kíla prathamā́ jagmur āsām índrasya yā́ḥ prasavé sasrúr ā́paḥ | kvà svíd ágraṃ kvà budhná āsām ā́po mádhyaṃ kvà vo nūnám ántaḥ ||
Far indeed the first waters have gone—those that streamed forth at Indra’s impulsion. Where is their beginning, where their foundation? O Waters, where is your middle, where now is your end within?
दू॒रम् । किल॑ । प्र॒थ॒माः । ज॒ग्मुः॒ । आ॒सा॒म् । इन्द्र॑स्य । याः । प्र॒ऽस॒वे । स॒स्रुः । आपः॑ । क्व॑ । स्वि॒त् । अग्र॑म् । क्व॑ । बु॒ध्नः । आ॒सा॒म् । आपः॑ । मध्य॑म् । क्व॑ । वः॒ । नू॒नम् । अन्तः॑ ॥दूरम् । किल । प्रथमाः । जग्मुः । आसाम् । इन्द्रस्य । याः । प्रसवे । सस्रुः । आपः । क्व । स्वित् । अग्रम् । क्व । बुध्नः । आसाम् । आपः । मध्यम् । क्व । वः । नूनम् । अन्तः ॥dūram | kila | prathamāḥ | jagmuḥ | āsām | indrasya | yāḥ | pra-save | sasruḥ | āpaḥ | kva | svit | agram | kva | budhnaḥ | āsām | āpaḥ | madhyam | kva | vaḥ | nūnam | antaḥ