Sukta 10.111
सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन् । आ यन्नक्षत्रं ददृशे दिवो न पुनर्यतो नकिरद्धा नु वेद ॥
सच॑न्त॒ यदु॒षस॒: सूर्ये॑ण चि॒त्राम॑स्य के॒तवो॒ राम॑विन्दन् । आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन॑र्य॒तो नकि॑र॒द्धा नु वे॑द ॥
sácanta yád uṣásaḥ sū́ryeṇa citrā́m asya ketávo rā́m avindan | ā́ yán nákṣatraṃ dadṛ́śe divó ná púnar yató nákir addhā́ nú veda ||
When the Dawns move in union with the Sun, the radiant beams find for him the shining delight. And when the star-sign is seen, it is as if from heaven—yet none knows surely whence it comes again.
सच॑न्त । यत् । उ॒षसः॑ । सूर्ये॑ण । चि॒त्राम् । अ॒स्य॒ । के॒तवः॑ । राम् । अ॒वि॒न्द॒न् । आ । यत् । नक्ष॑त्रम् । ददृ॑शे । दि॒वः । न । पुनः॑ । य॒तः । नकिः॑ । अ॒द्धा । नु । वे॒द॒ ॥सचन्त । यत् । उषसः । सूर्येण । चित्राम् । अस्य । केतवः । राम् । अविन्दन् । आ । यत् । नक्षत्रम् । ददृशे । दिवः । न । पुनः । यतः । नकिः । अद्धा । नु । वेद ॥sacanta | yat | uṣasaḥ | sūryeṇa | citrām | asya | ketavaḥ | rām | avindan | ā | yat | nakṣatram | dadṛśe | divaḥ | na | punaḥ | yataḥ | nakiḥ | addhā | nu | veda