Sukta 10.111
वज्रेण हि वृत्रहा वृत्रमस्तरदेवस्य शूशुवानस्य मायाः । वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन्बाह्वोजाः ॥
वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः । वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घ॒न्थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥
vájreṇa hí vṛtrahā́ vṛtrám ástar ádevasya śū́śuvānasya māyā́ḥ | ví dhṛ́ṣṇo átra dhṛṣatá jaghanthā́thā́bhavo maghavan bā́hvojāḥ ||
For with the thunderbolt, O slayer of the Coverer, you did strike the Coverer; you scattered the deceits of the godless one who swelled in self-will. Here, daring, you slew him by a more daring force; then you became, O giver of plenitude, mighty in the power of your arms.
वज्रे॑ण । हि । वृ॒त्र॒ऽहा । वृ॒त्रम् । अस्तः॑ । अदे॑वस्य । शूशु॑वानस्य । मा॒याः । वि । धृ॒ष्णो॒ इति॑ । अत्र॑ । धृ॒ष॒ता । ज॒घ॒न्थ॒ । अथ॑ । अ॒भ॒वः॒ । म॒घ॒ऽव॒न् । बा॒ह्वुऽओ॑जाः ॥वज्रेण । हि । वृत्रहा । वृत्रम् । अस्तः । अदेवस्य । शूशुवानस्य । मायाः । वि । धृष्णो इति । अत्र । धृषता । जघन्थ । अथ । अभवः । मघवन् । बाह्वुओजाः ॥vajreṇa | hi | vṛtra-hā | vṛtram | astaḥ | adevasya | śūśuvānasya | māyāḥ | vi | dhṛṣṇo iti | atra | dhṛṣatā | jaghantha | atha | abhavaḥ | magha-van | bāhvu-ojāḥ