Sukta 10.111
इन्द्रो दिवः प्रतिमानं पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् । महीं चिद्द्यामातनोत्सूर्येण चास्कम्भ चित्कम्भनेन स्कभीयान् ॥
इन्द्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण॑म् । म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी॑यान् ॥
índro diváḥ pratímānaṃ pṛthivyā́ víśvā veda sávanā hánti śúṣṇam | mahī́ṃ cid dyā́m ātanot sū́ryeṇa cā́skambha cit kámbhanena skábhīyān ||
Indra knows all the pressings of the Soma-delight and strikes down Śuṣṇa, the withholder of the flow. He has stretched out even the vast Heaven with the Sun of truth-vision, and he has propped it firm by a might of support stronger than the shaking powers.
इन्द्रः॑ । दि॒वः । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । विश्वा॑ । वे॒द॒ । सव॑ना । हन्ति॑ । शुष्ण॑म् । म॒हीम् । चि॒त् । द्याम् । आ । अ॒त॒नो॒त् । सूर्ये॑ण । चा॒स्कम्भ॑ । चि॒त् । कम्भ॑नेन । स्कभी॑यान् ॥इन्द्रः । दिवः । प्रतिमानम् । पृथिव्याः । विश्वा । वेद । सवना । हन्ति । शुष्णम् । महीम् । चित् । द्याम् । आ । अतनोत् । सूर्येण । चास्कम्भ । चित् । कम्भनेन । स्कभीयान् ॥indraḥ | divaḥ | prati-mānam | pṛthivyāḥ | viśvā | veda | savanā | hanti | śuṣṇam | mahīm | cit | dyām | ā | atanot | sūryeṇa | cāskambha | cit | kambhanena | skabhīyān