Sukta 10.111
इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनादङ्गिरोभिर्गृणानः । पुरूणि चिन्नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥
इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः । पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥
índro mahnā́ maható arṇavásya vratā́m inād áṅgirobhir gṛṇānáḥ | purū́ṇi cin ní tatānā rájāṃsi dādhā́ra yó dharúṇaṃ satyátātā ||
Indra, by his greatness, set in motion the laws of the vast ocean, praised by the Angiras seers. Many spaces he stretched out and established; he held the foundation—the supporter—by the power of the truth-being.
इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । व्र॒ता । अ॒मि॒ना॒त् । अङ्गि॑रःऽभिः । गृ॒णा॒नः । पु॒रूणि॑ । चि॒त् । नि । त॒ता॒न॒ । रजां॑सि । दा॒धार॑ । यः । ध॒रुण॑म् । स॒त्यऽता॑ता ॥इन्द्रः । मह्ना । महतः । अर्णवस्य । व्रता । अमिनात् । अङ्गिरःभिः । गृणानः । पुरूणि । चित् । नि । ततान । रजांसि । दाधार । यः । धरुणम् । सत्यताता ॥indraḥ | mahnā | mahataḥ | arṇavasya | vratā | amināt | aṅgiraḥ-bhiḥ | gṛṇānaḥ | purūṇi | cit | ni | tatāna | rajāṃsi | dādhāra | yaḥ | dharuṇam | satya-tātā