Sukta 10.111
ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट् । उदतिष्ठत्तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ॥
ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् । उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हान्ति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥
ṛtásya hí sádaso dhītír ádyaut sáṃ gāṛṣṭeyó vṛṣabhó góbhir ānaṭ | úd atiṣṭhat taviṣéṇā ráveṇa mahā́nti cit sáṃ vivyāca rájāṃsi ||
For the thought of Ṛta in the seat of the truth shone out; the bull, Gāṛṣṭeya, bellowed with the rays. He rose up with force and with his cry, and even the vast spaces he spread apart and made room for the movement of light.
ऋ॒तस्य॑ । हि । सद॑सः । धी॒तिः । अद्यौ॑त् । सम् । गा॒ऋष्टे॒यः । वृ॒ष॒भः । गोभिः॑ । आ॒न॒ट् । उत् । अ॒ति॒ष्ठ॒त् । त॒वि॒षेण॑ । रवे॑ण । म॒हान्ति॑ । चि॒त् । सम् । वि॒व्या॒च॒ । रजां॑सि ॥ऋतस्य । हि । सदसः । धीतिः । अद्यौत् । सम् । गाऋष्टेयः । वृषभः । गोभिः । आनट् । उत् । अतिष्ठत् । तविषेण । रवेण । महान्ति । चित् । सम् । विव्याच । रजांसि ॥ṛtasya | hi | sadasaḥ | dhītiḥ | adyaut | sam | gāṛṣṭeyaḥ | vṛṣabhaḥ | gobhiḥ | ānaṭ | ut | atiṣṭhat | taviṣeṇa | raveṇa | mahānti | cit | sam | vivyāca | rajāṃsi