Sukta 10.111
मनीषिणः प्र भरध्वं मनीषां यथायथा मतयः सन्ति नृणाम् । इन्द्रं सत्यैरेरयामा कृतेभिः स हि वीरो गिर्वणस्युर्विदानः ॥
मनी॑षिण॒: प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तय॒: सन्ति॑ नृ॒णाम् । इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभि॒: स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥
manī́ṣiṇaḥ prá bharadhvaṃ manīṣā́ṃ yáthāyathā matáyaḥ sánti nṛṇā́m | índraṃ satyáir ér ayāmā kṛtébhíḥ sá hí vīró girvaṇasyúr vidā́naḥ ||
O thinkers, bring forward your thought-forces, each as the human intentions are. With truths and with accomplished works let us set Indra in motion; for he is the hero, the lover of the inspired word, who knows the way of victory within.
मनी॑षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा॑ऽयथा । म॒तयः॑ । सन्ति॑ । नृ॒णाम् । इन्द्र॑म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः॑ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा॑नः ॥मनीषिणः । प्र । भरध्वम् । मनीषाम् । यथायथा । मतयः । सन्ति । नृणाम् । इन्द्रम् । सत्यैः । आ । ईरयाम । कृतेभिः । सः । हि । वीरः । गिर्वणस्युः । विदानः ॥manīṣiṇaḥ | pra | bharadhvam | manīṣām | yathāyathā | matayaḥ | santi | nṛṇām | indram | satyaiḥ | ā | īrayāma | kṛtebhiḥ | saḥ | hi | vīraḥ | girvaṇasyuḥ | vidānaḥ