Sukta 10.110
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥
आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥
ā suṣváyantī yajáte upā́ke uṣásānáktā sadatāṃ ní yónau | divyé yóṣaṇe bṛhatī́ surukmé adhí śríyaṃ śukrapíśaṃ dádhāne ||
Let Dawn and Night, awakening the sacrifice from near at hand, take their seat in their own womb of harmony. In the divine feminine field, vast and richly adorned, they establish the luminous beauty and the bright-form of splendour within us.
आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते इति॑ । उपा॑के॒ इति॑ । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ । दि॒व्ये । योष॑णे॒ इति॑ । बृ॒ह॒ती इति॑ । सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । अधि॑ । श्रिय॑म् । शु॒क्र॒ऽपिश॑म् । दधा॑ने ॥आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । सदताम् । नि । योनौ । दिव्ये । योषणे इति । बृहती इति । सुरुक्मे इति सुरुक्मे । अधि । श्रियम् । शुक्रपिशम् । दधाने ॥ā | susvayantī iti | yajate iti | upāke iti | uṣasānaktā | sadatām | ni | yonau | divye | yoṣaṇeiti | bṛhatī iti | surukme itisu-rukme | adhi | śriyam | śukra-piśam | dadhāne