Sukta 10.110
व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑य॒: शुम्भ॑मानाः । देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥
vyácasvatīr urviyā́ ví śrayantāṁ pátibhyo ná jánayaḥ śúmbhamānāḥ | devī́r dvā́ro bṛhatī́r viśvám-invā devébhyo bhavata suprāyāṇā́ḥ ||
Let the wide and radiant Doors spread open—like women adorned for their lords. O divine Doors, vast and all-furthering, become for the gods a happy passage and a perfect going-forth.
व्यच॑स्वतीः । उ॒र्वि॒या । वि । श्र॒य॒न्ता॒म् । पति॑ऽभ्यः । न । जन॑यः । शुम्भ॑मानाः । देवीः॑ । द्वा॒रः॒ । बृ॒ह॒तीः॒ । वि॒श्व॒म्ऽइ॒न्वाः॒ । दे॒वेभ्यः॑ । भ॒व॒त॒ । सु॒प्र॒ऽअ॒य॒णाः ॥व्यचस्वतीः । उर्विया । वि । श्रयन्ताम् । पतिभ्यः । न । जनयः । शुम्भमानाः । देवीः । द्वारः । बृहतीः । विश्वम्इन्वाः । देवेभ्यः । भवत । सुप्रअयणाः ॥vyacasvatīḥ | urviyā | vi | śrayantām | pati-bhyaḥ | na | janayaḥ | śumbhamānāḥ | devīḥ | dvāraḥ | bṛhatīḥ | viśvam-invāḥ | devebhyaḥ | bhavata | supra-ayaṇāḥ