Sukta 10.110
आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः । त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषा॑: । त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥
ājúhvāna ī́ḍyo vándyaś ca yā́hy agne vásubhiḥ sajóṣāḥ | tváṁ devā́nām asi yahvá hotā́ sá enān yakṣīṣito yajī́yān ||
O Agni, invoked with the ladle, worthy of adoration and of praise, come with the Vasus in one accord. Thou art the impelling Hotṛ of the gods; then, directed by thy will, sacrifice to these—thou who art most fit to perform the offering.
आ॒ऽजुह्वा॑नः । ईड्यः॑ । वन्द्यः॑ । च॒ । आ । या॒हि॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ । त्वम् । दे॒वाना॑म् । अ॒सि॒ । य॒ह्व॒ । होता॑ । सः । ए॒ता॒न् । य॒क्षि॒ । इ॒षि॒तः । यजी॑यान् ॥आजुह्वानः । ईड्यः । वन्द्यः । च । आ । याहि । अग्ने । वसुभिः । सजोषाः । त्वम् । देवानाम् । असि । यह्व । होता । सः । एतान् । यक्षि । इषितः । यजीयान् ॥ājuhvānaḥ | īḍyaḥ | vandyaḥ | ca | ā | yāhi | agne | vasu-bhiḥ | sa-joṣāḥ | tvam | devānām | asi | yahva | hotā | saḥ | etān | yakṣi | iṣitaḥ | yajīyān