Sukta 10.110
तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्त्स्वदया सुजिह्व । मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं न॑: ॥
tanū́napāt pathá ṛtásya yā́nān mádhvā samáñjan svadaya sujìhva | manmā́ni dhībhír utá yajñám ṛndhan devatrā́ ca kṛṇuhy adhvaráṁ naḥ ||
O Tanūnapāt, on the paths of Ṛta that go forward, anointing them with honey, make them sweet—O fair-tongued. Strengthen our inspired thoughts with the powers of understanding; and fashion our sacrifice into a godward movement, unhindered and true.
तनू॑ऽनपात् । प॒थः । ऋ॒तस्य॑ । याना॑न् । मध्वा॑ । स॒म्ऽअ॒ञ्जन् । स्व॒द॒य॒ । सु॒ऽजि॒ह्व॒ । मन्मा॑नि । धी॒भिः । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॒व॒ऽत्रा । च॒ । कृ॒णु॒हि॒ । अ॒ध्व॒रम् । नः॒ ॥तनूनपात् । पथः । ऋतस्य । यानान् । मध्वा । सम्अञ्जन् । स्वदय । सुजिह्व । मन्मानि । धीभिः । उत । यज्ञम् । ऋन्धन् । देवत्रा । च । कृणुहि । अध्वरम् । नः ॥tanū-napāt | pathaḥ | ṛtasya | yānān | madhvā | sam-añjan | svadaya | su-jihva | manmāni | dhībhiḥ | uta | yajñam | ṛndhan | deva-trā | ca | kṛṇuhi | adhvaram | naḥ