Sukta 10.110
उपावसृज त्मन्या समञ्जन्देवानां पाथ ऋतुथा हवींषि । वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥
उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ । वन॒स्पति॑: शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥
upā́vasṛja tmányā samañján devā́nāṃ pā́tha ṛtuthā́ havī́ṃṣi | vanáspátiḥ śamitā́ devó agníḥ svádantu havyáṃ mádhunā ghṛténa ||
Release and let go, by the inmost self, and in right joining set the path for the gods—offerings in their season. May Vanaspati, the arranger, and Agni the divine, make the oblation sweet to the taste with honey and with clarified light.
उ॒प॒ऽअव॑सृज । त्मन्या॑ । स॒म्ऽअ॒ञ्जन् । दे॒वाना॑म् । पाथः॑ । ऋ॒तु॒ऽथा । ह॒वींषि॑ । वन॒स्पतिः॑ । श॒मि॒ता । दे॒वः । अ॒ग्निः । स्वद॑न्तु । ह॒व्यम् । मधु॑ना । घृ॒तेन॑ ॥उपअवसृज । त्मन्या । सम्अञ्जन् । देवानाम् । पाथः । ऋतुथा । हवींषि । वनस्पतिः । शमिता । देवः । अग्निः । स्वदन्तु । हव्यम् । मधुना । घृतेन ॥upa-avasṛja | tmanyā | sam-añjan | devānām | pāthaḥ | ṛtu-thā | havīṃṣi | vanaspatiḥ | śamitā | devaḥ | agniḥ | svadantu | havyam | madhunā | ghṛtena