Sukta 10.110
य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा । तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ । तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥
yá imé dyāvāpṛthivī́ janítrī rū́pair ápiṃśad bhúvanāni víśvā | tám adyá hotariṣitó yajī́yān deváṃ tváṣṭāram ihá yákṣi vidvā́n ||
He who fashioned all the worlds with forms, the two begetters—Heaven and Earth—let him today be offered by you, O Hotar, guided and knowing: Tvaṣṭṛ, the divine shaper, sacrifice to him here in full awareness.
यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पैः । अपिं॑शत् । भुव॑नानि । विश्वा॑ । तम् । अ॒द्य । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥यः । इमे इति । द्यावापृथिवी इति । जनित्री इति । रूपैः । अपिंशत् । भुवनानि । विश्वा । तम् । अद्य । होतः । इषितः । यजीयान् । देवम् । त्वष्टारम् । इह । यक्षि । विद्वान् ॥yaḥ | ime iti | dyāvāpṛthivī iti | janitrī iti | rūpaiḥ | apiṃśat | bhuvanāni | viśvā | tam | adya | hotaḥ | iṣitaḥ | yajīyān | devam | tvaṣṭāram | iha | yakṣi | vidvān