Sukta 10.11
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र । रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥
यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र । रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ॥
yád agna eṣā́ sámitir bhávāti devī́ devéṣu yajatā́ yajatra | rátnā ca yád vibhájāsi svadhāvo bhāgáṃ no átra vásumantaṃ vītāt ||
When, O Agni, this gathering becomes a goddess among the gods, worthy to be worshipped—O adorable—then as you apportion the treasures, O you of inherent power, grant us here a share rich in spiritual plenty.
यत् । अ॒ग्ने॒ । ए॒षा । सम्ऽइ॑तिः । भवा॑ति । दे॒वी । दे॒वेषु॑ । य॒ज॒ता । य॒ज॒त्र॒ । रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि । स्व॒धा॒ऽवः॒ । भा॒गम् । नः॒ । अत्र॑ । वसु॑ऽमन्तम् । वी॒ता॒त् ॥यत् । अग्ने । एषा । सम्इतिः । भवाति । देवी । देवेषु । यजता । यजत्र । रत्ना । च । यत् । विभजासि । स्वधावः । भागम् । नः । अत्र । वसुमन्तम् । वीतात् ॥yat | agne | eṣā | sam-itiḥ | bhavāti | devī | deveṣu | yajatā | yajatra | ratnā | ca | yat | vi-bhajāsi | svadhāvaḥ | bhāgam | naḥ | atra | vasu-mantam | vītāt