Sukta 10.11
यस्ते अग्ने सुमतिं मर्तो अक्षत्सहसः सूनो अति स प्र शृण्वे । इषं दधानो वहमानो अश्वैरा स द्युमाँ अमवान्भूषति द्यून् ॥
यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे । इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥
yás te agne sumatíṃ márto ákṣat sáhaso sūno áti sá prá śṛṇve | íṣaṃ dádhāno váhamāno áśvair ā́ sá dyumā́m amávān bhūṣati dyū́n ||
That mortal who attains your good-minded guidance, O Agni, O Son of Strength—he is heard in full. Bearing the stream of impulsion and driven by the horses of energy, he becomes luminous and mighty; he adorns the days with light.
यः । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । मर्तः॑ । अक्ष॑त् । सह॑सः । सू॒नो॒ इति॑ । अति॑ । सः । प्र । शृ॒ण्वे॒ । इष॑म् । दधा॑नः । वह॑मानः । अश्वैः॑ । आ । सः । द्यु॒ऽमान् । अम॑ऽवान् । भू॒ष॒ति॒ । द्यून् ॥यः । ते । अग्ने । सुमतिम् । मर्तः । अक्षत् । सहसः । सूनो इति । अति । सः । प्र । शृण्वे । इषम् । दधानः । वहमानः । अश्वैः । आ । सः । द्युमान् । अमवान् । भूषति । द्यून् ॥yaḥ | te | agne | su-matim | martaḥ | akṣat | sahasaḥ | sūno iti | ati | saḥ | pra | śṛṇve | iṣam | dadhānaḥ | vahamānaḥ | aśvaiḥ | ā | saḥ | dyu-mān | ama-vān | bhūṣati | dyūn