Sukta 10.11
उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति । विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥
उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति । विव॑क्ति॒ वह्नि॑: स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥
udī́raya pitarā jārā́ ā́ bhágam íyakṣati haryató hṛttá iṣyati | vívakti váhniḥ svapasyáte mákhas taviṣyáte ásuro vépate matī́ ||
Awaken, O Fathers: the Lover comes forward; he seeks to win Bhaga. The eager one, stirred in the heart, presses on. The bearer of the offering discerns; he labors well; the power of the sacrifice grows strong; the Asura-force trembles in the mind.
उत् । ई॒र॒य॒ । पि॒तरा॑ । जा॒रः । आ । भग॑म् । इय॑क्षति । ह॒र्य॒तः । हृ॒त्तः । इ॒ष्य॒ति॒ । विव॑क्ति । वह्निः॑ । सु॒ऽअ॒प॒स्यते॑ । म॒खः । त॒वि॒ष्यते॑ । असु॑रः । वेप॑ते । म॒ती ॥उत् । ईरय । पितरा । जारः । आ । भगम् । इयक्षति । हर्यतः । हृत्तः । इष्यति । विवक्ति । वह्निः । सुअपस्यते । मखः । तविष्यते । असुरः । वेपते । मती ॥ut | īraya | pitarā | jāraḥ | ā | bhagam | iyakṣati | haryataḥ | hṛttaḥ | iṣyati | v ivakti | vahniḥ | su-apasyate | makhaḥ | taviṣyate | asuraḥ | vepate | matī