Sukta 10.11
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः । विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवाँ उपयासि भूरिभिः ॥
सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः । विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ u॑प॒यासि॒ भूरि॑भिः ॥
sádāsi raṇvó yávaseva púṣyate hótṛābhir agne mánuṣaḥ svadhvaráḥ | víprasya vā yác chaśamāná ukthyàṃ vā́jaṃ sasavā́ṃ upayā́si bhū́ribhiḥ ||
Ever you are the delightful one; you grow like pasture-grass through the acts of invocation—O Agni—when the human being makes the sacrifice well-ordered. And when the seer, striving, wins the forceful plenitude that is worthy of the hymn, you come near with abundance.
सदा॑ । अ॒सि॒ । र॒ण्वः । यव॑साऽइव । पुष्य॑ते । होत्रा॑भिः । अ॒ग्ने॒ । मनु॑षः । सु॒ऽअ॒ध्व॒रः । विप्र॑स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य॑म् । वाज॑म् । स॒स॒ऽवान् । उ॒प॒ऽयासि॑ । भूरि॑ऽभिः ॥सदा । असि । रण्वः । यवसाइव । पुष्यते । होत्राभिः । अग्ने । मनुषः । सुअध्वरः । विप्रस्य । वा । यत् । शशमानः । उक्थ्यम् । वाजम् । ससवान् । उपयासि । भूरिभिः ॥sadā | asi | raṇvaḥ | yavasāiva | puṣyate | hotrābhiḥ | agne | manuṣaḥ | su-adhvaraḥ | viprasya | vā | yat | śaśamānaḥ | ukthyam | vājam | sasa-vān | upa-yāsi | bhūri-bhiḥ