Sukta 10.11
अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे । यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥
अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे । यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥
ádha tyáṃ drápsaṃ vibhváṃ vicakṣaṇáṃ vír ā́bharad iṣitáḥ śyénó adhvaré | yadī́ víśo vṛṇáte dasmám ā́ryā agním hótāram ádha dhī́r ajāyata ||
Then the impelled Falcon brought that radiant drop, wide and far-seeing, into the path of the offering. When the Aryan peoples choose Agni, the wonderful, as the invoking priest, then indeed the illumined intelligence is born.
अध॑ । त्यम् । द्र॒प्सम् । वि॒भ्व॑म् । वि॒ऽच॒क्ष॒णम् । विः । आ । अ॒भ॒र॒त् । इ॒षि॒तः । श्ये॒नः । अ॒ध्व॒रे । यदि॑ । विशः॑ । वृ॒णते॑ । द॒स्मम् । आर्याः॑ । अ॒ग्निम् । होता॑रम् । अध॑ । धीः । अ॒जा॒य॒त॒ ॥अध । त्यम् । द्रप्सम् । विभ्वम् । विचक्षणम् । विः । आ । अभरत् । इषितः । श्येनः । अध्वरे । यदि । विशः । वृणते । दस्मम् । आर्याः । अग्निम् । होतारम् । अध । धीः । अजायत ॥adha | tyam | drapsam | vibhvam | vi-cakṣaṇam | viḥ | ā | abharat | iṣitaḥ | śyenaḥ | adhvare | yadi | viśaḥ | vṛṇate | dasmam | āryāḥ | agnim | hotāram | adha | dhīḥ | ajāyata