Sukta 10.107
भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं या सुवासाः । भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः प्रयन्ति ॥
भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे॑ भो॒जा जि॑ग्युर्व॒ध्वं१॒॑ या सु॒वासा॑: । भो॒जा जि॑ग्युरन्त॒:पेयं॒ सुरा॑या भो॒जा जि॑ग्यु॒र्ये अहू॑ताः प्र॒यन्ति॑ ॥
bhojā́ jigyúḥ surabhíṃ yónim ágre bhojā́ jigyur vadhvàm yā́ su-vā́sāḥ | bhojā́ jigyur antáḥ-peyaṃ surā́yā bhojā́ jigyur yé ahū́tāḥ pra-yánti ||
The Bhojas have won the fragrant source at the beginning; the Bhojas have won the bride who is well-clad. The Bhojas have won the inward draught of surā; the Bhojas have won—those who go forth even when not invited.
भो॒जाः । जि॒ग्युः॒ । सु॒र॒भिम् । योनि॑म् । अग्रे॑ । भो॒जाः । जि॒ग्युः॒ । व॒ध्व॑म् । या । सु॒ऽवासाः॑ । भो॒जाः । जि॒ग्युः॒ । अ॒न्तः॒ऽपेय॑म् । सुरा॑याः । भो॒जाः । जि॒ग्युः॒ । ये । अहू॑ताः । प्र॒ऽयन्ति॑ ॥भोजाः । जिग्युः । सुरभिम् । योनिम् । अग्रे । भोजाः । जिग्युः । वध्वम् । या । सुवासाः । भोजाः । जिग्युः । अन्तःपेयम् । सुरायाः । भोजाः । जिग्युः । ये । अहूताः । प्रयन्ति ॥bhojāḥ | jigyuḥ | surabhim | yonim | agre | bhojāḥ | jigyuḥ | vadhvam | yā | su-vāsāḥ | bhojāḥ | jigyuḥ | antaḥ-peyam | surāyāḥ | bhojāḥ | jigyuḥ | ye | ahūtāḥ | pra-yanti