Sukta 10.107
न भोजा मम्रुर्न न्यर्थमीयुर्न रिष्यन्ति न व्यथन्ते ह भोजाः । इदं यद्विश्वं भुवनं स्वश्चैतत्सर्वं दक्षिणैभ्यो ददाति ॥
न भो॒जा म॑म्रु॒र्न न्य॒र्थमी॑यु॒र्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भो॒जाः । इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥
ná bhojā́ mamrúr ná nyàrtham ī́yur ná ríṣyanti ná vyàthante ha bhojā́ḥ | idáṃ yád víśvaṃ bhúvanaṃ svàś ca etát sárvaṃ dákṣiṇā ebhyó dadāti ||
The Bhojas do not perish; they do not go to futility; they are not harmed, nor do they falter—these Bhojas. This entire world that is, and the heaven too—Dakṣiṇā gives all this to them.
न । भो॒जाः । म॒म्रुः॒ । न । नि॒ऽअ॒र्थम् । ई॒युः॒ । न । रि॒ष्य॒न्ति॒ । न । व्य॒थ॒न्ते॒ । ह॒ । भो॒जाः । इ॒दम् । यत् । विश्व॑म् । भुव॑नम् । स्वः॑ । च॒ । ए॒तत् । सर्व॑म् । दक्षि॑णा । ए॒भ्यः॒ । द॒दा॒ति॒ ॥न । भोजाः । मम्रुः । न । निअर्थम् । ईयुः । न । रिष्यन्ति । न । व्यथन्ते । ह । भोजाः । इदम् । यत् । विश्वम् । भुवनम् । स्वः । च । एतत् । सर्वम् । दक्षिणा । एभ्यः । ददाति ॥na | bhojāḥ | mamruḥ | na | ni-artham | īyuḥ | na | riṣyanti | na | vyathante | ha | bhojāḥ | idam | yat | viśvam | bhuvanam | svaḥ | ca | etat | sarvam | dakṣiṇā | ebhyaḥ | dadāti