Sukta 10.107
भोजायाश्वं सं मृजन्त्याशुं भोजायास्ते कन्या शुम्भमाना । भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ॥
भो॒जायाश्वं॒ सं मृ॑जन्त्या॒शुं भो॒जाया॑स्ते क॒न्या॒३॒॑ शुम्भ॑माना । भो॒जस्ये॒दं पु॑ष्क॒रिणी॑व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रम् ॥
bhojā́yāśvaṃ sám mṛjánty āśúṃ bhojā́yāste kanyā́ śúmbhamānā | bhojásyedáṃ puṣkaríṇīva véśma páriṣkṛtaṃ devamānā́iva citrám ||
For the Bhoja they groom the swift horse; for the Bhoja the maiden sits adorning herself. This home of the Bhoja is like a lotus-lake, beautifully arranged, radiant as if with divine delight, full of varied splendour.
भो॒जाय॑ । अश्व॑म् । सम् । मृ॒ज॒न्ति॒ । आ॒शुम् । भो॒जाय॑ । आ॒स्ते॒ । क॒न्या॑ । शुम्भ॑माना । भो॒जस्य॑ । इ॒दम् । पु॒ष्क॒रिणी॑ऽइव । वेश्म॑ । परि॑ऽकृतम् । दे॒व॒मा॒नाऽइ॑व । चि॒त्रम् ॥भोजाय । अश्वम् । सम् । मृजन्ति । आशुम् । भोजाय । आस्ते । कन्या । शुम्भमाना । भोजस्य । इदम् । पुष्करिणीइव । वेश्म । परिकृतम् । देवमानाइव । चित्रम् ॥bhojāya | aśvam | sam | mṛjanti | āśum | bhojāya | āste | kanyā | śumbhamānā | bhojasya | idam | puṣkariṇī-iva | veśma | pari-kṛtam | devamānāiva | citram