Sukta 10.107
दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद्धिरण्यम् । दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥
दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा च॒न्द्रमु॒त यद्धिर॑ण्यम् । दक्षि॒णान्नं॑ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ॥
dakṣiṇā́śvaṃ dákṣiṇā gā́ṃ dadāti dákṣiṇā candrám utá yád dhíraṇyam | dakṣiṇā́nnaṃ vanute yó na ātmā́ dákṣiṇāṃ várma kṛṇute vijā́nān ||
Dakṣiṇā gives the steed of force; Dakṣiṇā gives the cow of light; Dakṣiṇā gives the shining moon and whatever is gold. Dakṣiṇā wins the food of plenitude: she is our very self when, knowing, one makes Dakṣiṇā a protective armour around the being.
दक्षि॑णा । अश्व॑म् । दक्षि॑णा । गाम् । द॒दा॒ति॒ । दक्षि॑णा । च॒न्द्रम् । उ॒त । यत् । हिर॑ण्यम् । दक्षि॑णा । अन्न॑म् । व॒नु॒ते॒ । यः । नः॒ । आ॒त्मा । दक्षि॑णाम् । वर्म॑ । कृ॒णु॒ते॒ । वि॒ऽजा॒नन् ॥दक्षिणा । अश्वम् । दक्षिणा । गाम् । ददाति । दक्षिणा । चन्द्रम् । उत । यत् । हिरण्यम् । दक्षिणा । अन्नम् । वनुते । यः । नः । आत्मा । दक्षिणाम् । वर्म । कृणुते । विजानन् ॥dakṣiṇā | aśvam | dakṣiṇā | gām | dadāti | dakṣiṇā | candram | uta | yat | hiraṇyam | dakṣi ṇā | annam | vanute | yaḥ | naḥ | ātmā | dakṣiṇām | varma | kṛṇute | vi-jānan