Sukta 10.107
तमेव ऋषिं तमु ब्रह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम् । स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥
तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं॑ साम॒गामु॑क्थ॒शास॑म् । स शु॒क्रस्य॑ त॒न्वो॑ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ॥
tám evá ṛ́ṣiṃ tám u brahmā́ṇam āhur yajñanyàṃ sāmagā́m ukthaśā́sām | sá śukrásya tanvò veda tisró yáḥ prathamó dákṣiṇayā rarā́dha ||
Him indeed they call the seer; him too they call the brahman, fit for sacrifice, a singer of the Sāman, a master of the inspired utterance. He knows the three bodies/forms of the luminous (power), he who first found fulfilment by Dakṣiṇā.
तम् । ए॒व । ऋषि॑म् । तम् । ऊँ॒ इति॑ । ब्र॒ह्माण॑म् । आ॒हुः॒ । य॒ज्ञ॒ऽन्य॑म् । सा॒म॒ऽगाम् । उ॒क्थ॒ऽशास॑म् । सः । शु॒क्रस्य॑ । त॒न्वः॑ । वे॒द॒ । ति॒स्रः । यः । प्र॒थ॒मः । दक्षि॑णया । र॒राध॑ ॥तम् । एव । ऋषिम् । तम् । ऊँ इति । ब्रह्माणम् । आहुः । यज्ञन्यम् । सामगाम् । उक्थशासम् । सः । शुक्रस्य । तन्वः । वेद । तिस्रः । यः । प्रथमः । दक्षिणया । रराध ॥tam | eva | ṛṣim | tam | oṃ iti | brahmāṇam | āhuḥ | yajña-nyam | sāma-gām | uktha-śāsam | saḥ | śukrasya | tanvaḥ | veda | tisraḥ | yaḥ | prathamaḥ | dakṣiṇayā | rarādha