Sukta 10.107
दक्षिणावान्प्रथमो हूत एति दक्षिणावान्ग्रामणीरग्रमेति । तमेव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणामाविवाय ॥
दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति । तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥
dákṣiṇāvān prathamó hūtá étí dákṣiṇāvān grāmaṇī́r ágram etí | tám evá manye nṛpátiṃ jánānāṃ yáḥ prathamó dákṣiṇām āvivā́ya ||
He who is filled with Dakṣiṇā—right discernment and the power of consecrated giving—moves first when invoked; as a leader of the inner community he advances to the front. Him alone I regard as the true lord of the peoples, who was the first to set Dakṣiṇā in motion and establish her action.
दक्षि॑णाऽवान् । प्र॒थ॒मः । हू॒तः । ए॒ति॒ । दक्षि॑णाऽवान् । ग्रा॒म॒ऽनीः । अग्र॑म् । ए॒ति॒ । तम् । ए॒व । म॒न्ये॒ । नृ॒ऽपति॑म् । जना॑नाम् । यः । प्र॒थ॒मः । दक्षि॑णाम् । आ॒ऽवि॒वाय॑ ॥दक्षिणावान् । प्रथमः । हूतः । एति । दक्षिणावान् । ग्रामनीः । अग्रम् । एति । तम् । एव । मन्ये । नृपतिम् । जनानाम् । यः । प्रथमः । दक्षिणाम् । आविवाय ॥dakṣiṇāvān | prathamaḥ | hūtaḥ | eti | dakṣiṇāvān | grāma-nīḥ | agram | eti | tam | eva | manye | nṛ-patim | janānām | yaḥ | prathamaḥ | dakṣiṇām | āvivāya