Sukta 10.107
शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते हविः । ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥
श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः । ये पृ॒णन्ति॒ प्र च॒ यच्छ॑न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरम् ॥
śatá-dhāraṃ vāyúm arkáṃ svar-vídaṃ nṛ-cákṣasas té abhí cakṣate havíḥ | yé pṛṇánti prá ca yáchchanti saṃgamé té dakṣiṇā́ṃ duhate saptá-mātaram ||
They behold the offering with human sight: Vāyu of a hundred streams, the Sun-hymn that finds the luminous world. Those who fulfil and also give forth in the meeting, they milk Dakṣiṇā, the seven-mothered—drawing from her inexhaustible abundance of right reward.
श॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्वः॒ऽविद॑म् । नृ॒ऽचक्ष॑सः । ते॒ । अ॒भि । च॒क्ष॒ते॒ । ह॒विः । ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒म्ऽग॒मे । ते । दक्षि॑णाम् । दु॒ह॒ते॒ । स॒प्तऽमा॑तरम् ॥शतधारम् । वायुम् । अर्कम् । स्वःविदम् । नृचक्षसः । ते । अभि । चक्षते । हविः । ये । पृणन्ति । प्र । च । यच्छन्ति । सम्गमे । ते । दक्षिणाम् । दुहते । सप्तमातरम् ॥śata-dhāram | vāyum | arkam | svaḥ-vidam | nṛ-cakṣasaḥ | te | abhi | cakṣate | haviḥ | ye | pṛṇanti | pra | ca | yacchanti | sam-game | te | dakṣiṇām | duhate | sapta-mātaram