Sukta 10.107
दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति । अथा नरः प्रयतदक्षिणासोऽवद्यभिया बहवः पृणन्ति ॥
दैवी॑ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो॑ न॒हि ते पृ॒णन्ति॑ । अथा॒ नर॒: प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हव॑: पृणन्ति ॥
daivī́ pūrtír dakṣiṇā devayajyā́ na kavā́ribhyo náhi té pṛṇanti | áthā nárāḥ práyata-dakṣiṇāso'vadyabhi yā́ bahávaḥ pṛṇanti ||
Dakṣiṇā is a divine fulfilment, a godward sacrifice; the miserly do not fill her, they cannot. But men who are prepared in right giving, fearing the fall into falsehood, many of them do fulfil her.
दैवी॑ । पू॒र्तिः । दक्षि॑णा । दे॒व॒ऽय॒ज्या । न । क॒व॒ऽअ॒रिभ्यः॑ । न॒हि । ते । पृ॒णन्ति॑ । अथ॑ । नरः॑ । प्रय॑तऽदक्षिणासः । अ॒व॒द्य॒ऽभि॒या । ब॒हवः॑ । पृ॒ण॒न्ति॒ ॥दैवी । पूर्तिः । दक्षिणा । देवयज्या । न । कवअरिभ्यः । नहि । ते । पृणन्ति । अथ । नरः । प्रयतदक्षिणासः । अवद्यभिया । बहवः । पृणन्ति ॥daivī | pūrtiḥ | dakṣiṇā | deva-yajyā | na | kava-aribhyaḥ | nahi | te | pṛṇanti | atha | naraḥ | prayata-dakṣiṇāsaḥ | avadya-bhiyā | bahavaḥ | pṛṇanti