Sukta 10.107
उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सह ते सूर्येण । हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥
उ॒च्चा दि॒वि दक्षि॑णावन्तो अस्थु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्ये॑ण । हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जन्ते वासो॒दाः सो॑म॒ प्र ति॑रन्त॒ आयु॑: ॥
uccā diví dakṣiṇā́vanto asthur yé aśva-dā́ḥ sahá té sū́ryeṇa | hiraṇya-dā́ amṛta-tváṃ bhajante vāsaḥ-dā́ḥ soma prá tirante ā́yuḥ ||
High in the heaven stand those who are filled with Dakṣiṇā, those who give the horse of force; they move with the Sun. Those who give gold share in immortality; those who give the robe (a covering of protection) extend their life-energy, O Soma.
उ॒च्चा । दि॒वि । दक्षि॑णाऽवन्तः । अ॒स्थुः॒ । ये । अ॒श्व॒ऽदाः । स॒ह । ते । सूर्ये॑ण । हि॒र॒ण्य॒ऽदाः । अ॒मृत॒ऽत्वम् । भ॒ज॒न्ते॒ । वा॒सः॒ऽदाः । सो॒म॒ । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥उच्चा । दिवि । दक्षिणावन्तः । अस्थुः । ये । अश्वदाः । सह । ते । सूर्येण । हिरण्यदाः । अमृतत्वम् । भजन्ते । वासःदाः । सोम । प्र । तिरन्ते । आयुः ॥uccā | divi | dakṣiṇāvantaḥ | asthuḥ | ye | aśva-dāḥ | saha | te | sūryeṇa | hiraṇya-dāḥ | amṛta-tvam | bhajante | vāsaḥ-dāḥ | soma | pra | tirante | āyuḥ