Sukta 10.107
आविरभून्महि माघोनमेषां विश्वं जीवं तमसो निरमोचि । महि ज्योतिः पितृभिर्दत्तमागादुरुः पन्था दक्षिणाया अदर्शि ॥
आ॒विर॑भू॒न्महि॒ माघो॑नमेषां॒ विश्वं॑ जी॒वं तम॑सो॒ निर॑मोचि । महि॒ ज्योति॑: पि॒तृभि॑र्द॒त्तमागा॑दु॒रुः पन्था॒ दक्षि॑णाया अदर्शि ॥
āvír abhūn máhi mā́ghonam eṣāṃ víśvaṃ jīváṃ támason nír amoci | máhi jyótiḥ pitṛ́bhir dátam āgād urúḥ pánthā dakṣiṇā́yā adarśi ||
A great and manifest power has arisen for these givers: all that lives is released from darkness. A vast light, given by the Fathers, has come; a wide path of Dakṣiṇā (the right offering, the right giving) has been revealed.
आ॒विः । अ॒भू॒त् । महि॑ । माघो॑नम् । ए॒षा॒म् । विश्व॑म् । जी॒वम् । तम॑सः । निः । अ॒मो॒चि॒ । महि॑ । ज्योतिः॑ । पि॒तृऽभिः॑ । द॒त्तम् । आ । अ॒गा॒त् । उ॒रुः । पन्थाः॑ । दक्षि॑णायाः । अ॒द॒र्शि॒ ॥आविः । अभूत् । महि । माघोनम् । एषाम् । विश्वम् । जीवम् । तमसः । निः । अमोचि । महि । ज्योतिः । पितृभिः । दत्तम् । आ । अगात् । उरुः । पन्थाः । दक्षिणायाः । अदर्शि ॥āviḥ | abhūt | mahi | māghonam | eṣām | viśvam | jīvam | tamasaḥ | niḥ | amoci | mahi | jyotiḥ | pitṛ-bhiḥ | dattam | ā | agāt | uruḥ | panthāḥ | dakṣiṇāyāḥ | adarśi