Sukta 10.107
भोजमश्वाः सुष्ठुवाहो वहन्ति सुवृद्रथो वर्तते दक्षिणायाः । भोजं देवासोऽवता भरेषु भोजः शत्रून्त्समनीकेषु जेता ॥
भो॒जमश्वा॑: सुष्ठु॒वाहो॑ वहन्ति सु॒वृद्रथो॑ वर्तते॒ दक्षि॑णायाः । भो॒जं दे॑वासोऽवता॒ भरे॑षु भो॒जः शत्रू॑न्त्समनी॒केषु॒ जेता॑ ॥
bhojáṃ aśvā́ḥ suṣṭhu-vā́ho vahanti su-vṛ́d rathó vartate dákṣiṇāyāḥ | bhojáṃ devā́so avatā́ bháreṣu bhojáḥ śátrūn sam-anīkéṣu jétā ||
The well-drawing horses carry the Bhoja; the chariot of Dakṣiṇā moves with good turning. The gods protect the Bhoja in the battles; the Bhoja becomes a conqueror of enemies in the joined encounters.
भो॒जम् । अश्वाः॑ । सु॒ष्ठु॒ऽवाहः॑ । व॒ह॒न्ति॒ । सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । दक्षि॑णायाः । भो॒जम् । दे॒वा॒सः॒ । अ॒व॒त॒ । भरे॑षु । भो॒जः । शत्रू॑न् । स॒म्ऽअ॒नी॒केषु॑ । जेता॑ ॥भोजम् । अश्वाः । सुष्ठुवाहः । वहन्ति । सुवृत् । रथः । वर्तते । दक्षिणायाः । भोजम् । देवासः । अवत । भरेषु । भोजः । शत्रून् । सम्अनीकेषु । जेता ॥bhojam | aśvāḥ | suṣṭhu-vāhaḥ | vahanti | su-vṛt | rathaḥ | vartate | dakṣiṇāyāḥ | bhojam | devāsaḥ | avata | bhareṣu | bhojaḥ | śatrūn | sam-anīkeṣu | jetā