Sukta 10.105
ऊर्ध्वा यत्ते त्रेतिनी भूद्यज्ञस्य धूर्षु सद्मन् । सजूर्नावं स्वयशसं सचायोः ॥
ऊ॒र्ध्वा यत्ते॑ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् । स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ॥
ūrdhvā́ yát te tretínī bhūd yajñásya dhū́rṣu sádman | sajū́r nā́vaṃ sváyaśasaṃ sácāyoḥ ||
When thy triple-strand rose upright in the seat, upon the yoke-poles of the sacrifice, then together with the two (powers) thou didst join the self-glorious boat—so the passage is made.
ऊ॒र्ध्वा । यत् । ते॒ । त्रे॒तिनी॑ । भूत् । य॒ज्ञस्य॑ । धूः॒ऽसु । सद्म॑न् । स॒ऽजूः । नाव॑म् । स्वऽय॑शसम् । सचा॑ । आ॒योः ॥ऊर्ध्वा । यत् । ते । त्रेतिनी । भूत् । यज्ञस्य । धूःसु । सद्मन् । सजूः । नावम् । स्वयशसम् । सचा । आयोः ॥ūrdhvā | yat | te | tretinī | bhūt | yajñasya | dhūḥ-su | sadman | sa-jūḥ | nāvam | sva-yaśasam | sacā | āyoḥ