Sukta 10.105
श्रिये ते पृश्निरुपसेचनी भूच्छ्रिये दर्विररेपाः । यया स्वे पात्रे सिञ्चस उत् ॥
श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः । यया॒ स्वे पात्रे॑ सि॒ञ्चस॒ उत् ॥
śríye te pṛ́śnir upa-sécanī bhūc chríye dárvir arepā́ḥ | yayā́ své pā́tre siñcáse út ||
For thy increase of splendour may the dappled (abundance) become the pouring-stream; for thy increase may the ladle be stainless—by which thou pourest out into thine own vessel.
श्रि॒ये । ते॒ । पृश्निः॑ । उ॒प॒ऽसेच॑नी । भू॒त् । श्रि॒ये । दर्विः॑ । अ॒रे॒पाः । यया॑ । स्वे । पात्रे॑ । सि॒ञ्चसे॑ । उत् ॥श्रिये । ते । पृश्निः । उपसेचनी । भूत् । श्रिये । दर्विः । अरेपाः । यया । स्वे । पात्रे । सिञ्चसे । उत् ॥śriye | te | pṛśniḥ | upa-secanī | bhūt | śriye | darviḥ | arepāḥ | yayā | sve | pātre | siñcase | ut