Sukta 10.105
वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् । अरुतहनुरद्भुतं न रजः ॥
वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् । अरु॑तहनु॒रद्भु॑तं॒ न रज॑: ॥
vájraṃ yáś cakré su-hánāya dásyave hirīmaśó hárīmān | arútahanur ádbhutaṃ ná rájaḥ ||
He who forged the vajra (the irresistible will-force) for the easy slaying of the Dasyu (the dark obstructer), he—golden-maned, rich in luminous energies—breaks the jaws of resistance, a marvel like the vast expanse.
वज्र॑म् । यः । च॒क्रे । सु॒ऽहना॑य । दस्य॑वे । हि॒री॒म॒शः । हरी॑मान् । अरु॑तऽहनुः । अद्भु॑तम् । न । रजः॑ ॥वज्रम् । यः । चक्रे । सुहनाय । दस्यवे । हिरीमशः । हरीमान् । अरुतहनुः । अद्भुतम् । न । रजः ॥vajram | yaḥ | cakre | su-hanāya | dasyave | hirīmaśaḥ | harīmān | aruta-hanuḥ | adbhutam | na | rajaḥ