Sukta 10.105
अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै । वनोति शिप्राभ्यां शिप्रिणीवान् ॥
अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै । व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥
ádhi yás tastháu kéśavantā vyácasvantā ná púṣṭyai | vánoti śíprābhyāṃ śipriṇī́vān ||
He who has taken his stand above the long-maned, wide-spreading (powers) for the increase—he wins by his two ‘śiprā’ (jaw/cheek powers), the strong-jawed one.
अधि॑ । यः । त॒स्थौ । केष॑ऽवन्ता । व्यच॑स्वन्ता । न । पु॒ष्ट्यै । व॒नोति॑ । शिप्रा॑भ्याम् । शि॒प्रिणी॑ऽवान् ॥अधि । यः । तस्थौ । केषवन्ता । व्यचस्वन्ता । न । पुष्ट्यै । वनोति । शिप्राभ्याम् । शिप्रिणीवान् ॥adhi | yaḥ | tasthau | keṣa-vantā | vyacasvantā | na | puṣṭyai | vanoti | śiprābhyām | śipriṇī-vān