Sukta 10.105
अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् । शुभे यद्युयुजे तविषीवान् ॥
अप॒ योरिन्द्र॒: पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् । शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥
ápa yór índraḥ pā́paja ā́ martó ná śaśramāṇó bibhī́vān | śubhé yád yuyujé taviṣī́vān ||
Indra has driven away the hostile ones; like a mortal who toils, yet fearing not. When the mighty one yoked himself to the luminous good, he moved forward.
अप॑ । योः । इन्द्रः॑ । पाप॑जे । आ । मर्तः॑ । न । श॒श्र॒मा॒णः । बि॒भी॒वान् । शु॒भे । यत् । यु॒यु॒जे । तवि॑षीऽवान् ॥अप । योः । इन्द्रः । पापजे । आ । मर्तः । न । शश्रमाणः । बिभीवान् । शुभे । यत् । युयुजे । तविषीवान् ॥apa | yoḥ | indraḥ | pāpaje | ā | martaḥ | na | śaśramāṇaḥ | bibhīvān | śubhe | yat | yuyuje | taviṣī-vān