Sukta 10.105
हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा । उभा रजी न केशिना पतिर्दन् ॥
हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा॑ । उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥
harī́ yásya suyújā vívratā véra rvántā́nu śépā | ubhā́ rajī́ ná keśínā pátir dán ||
Whose two tawny steeds are well-yoked, wide-ranging, bringing the prize, following the rein—he holds the two world-tracks as a lord, like the long-haired one.
हरी॒ इति॑ । यस्य॑ । सु॒ऽयुजा॑ । विऽव्र॑ता । वेः । अर्व॑न्ता । अनु॑ । शेपा॑ । उ॒भा । र॒जी इति॑ । न । के॒शिना॑ । पतिः॑ । द॒न् ॥हरी इति । यस्य । सुयुजा । विव्रता । वेः । अर्वन्ता । अनु । शेपा । उभा । रजी इति । न । केशिना । पतिः । दन् ॥harī iti | yasya | su-yujā | vi-vratā | veḥ | arvantā | anu | śepā | ubhā | rajī iti | na | keśinā | patiḥ | dan