Sukta 10.105
कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद्वाः । दीर्घं सुतं वाताप्याय ॥
क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः । दी॒र्घं सु॒तं वा॒ताप्या॑य ॥
kadā vaso stotrám háryata ā́va śmaśā́ rudhád vāḥ | dī́rghaṃ sutáṃ vātā́pyāya ||
When, O Vasu, will the hymn come to thy delight—when the mouth holds back the out-breath? (Then) for the long-pressed Soma, for the strengthening by the wind-breath.
क॒दा । व॒सो॒ इति॑ । स्तो॒त्रम् । हर्य॑ते । आ । अव॑ । श्म॒शा । रु॒ध॒त् । वारिति॒ वाः । दी॒र्घम् । सु॒तम् । वा॒ताप्या॑य ॥कदा । वसो इति । स्तोत्रम् । हर्यते । आ । अव । श्मशा । रुधत् । वारिति वाः । दीर्घम् । सुतम् । वाताप्याय ॥kadā | vaso iti | stotram | haryate | ā | ava | śmaśā | rudhat | vāritivāḥ | dīrgham | sutam | vātāpyāya