Sukta 10.105
शतं वा यदसुर्य प्रति त्वा सुमित्र इत्थास्तौद्दुर्मित्र इत्थास्तौत् । आवो यद्दस्युहत्ये कुत्सपुत्रं प्रावो यद्दस्युहत्ये कुत्सवत्सम् ॥
श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् । आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सम् ॥
śatáṃ vā yád asurya práti tvā sumitrás ítthā́staut durmitrás ítthā́staut | ā́vo yád dasyu-hátye kutsa-putráṃ prá́vo yád dasyu-hátye kutsa-vatsám ||
Whether a hundred times in the Asurya struggle the well-ally thus praised thee, and the ill-ally thus praised thee—thou didst protect, in the slaying of the Dasyu, Kutsaputra; thou didst lead forth, in the slaying of the Dasyu, Kutsavatsa.
श॒तम् । वा॒ । यत् । अ॒सु॒र्य॒ । प्रति॑ । त्वा॒ । सु॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । दुः॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽपु॒त्रम् । प्र । आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽव॒त्सम् ॥शतम् । वा । यत् । असुर्य । प्रति । त्वा । सुमित्रः । इत्था । अस्तौत् । दुःमित्रः । इत्था । अस्तौत् । आवः । यत् । दस्युहत्ये । कुत्सपुत्रम् । प्र । आवः । यत् । दस्युहत्ये । कुत्सवत्सम् ॥śatam | vā | yat | asurya | prati | tvā | su-mitraḥ | itthā | astaut | duḥ-mitraḥ | itthā | astaut | āvaḥ | yat | dasyu-hatye | kutsa-putram | pra | āvaḥ | yat | dasyu-hatye | kutsa-vatsam