Sukta 10.104
अपो महीरभिशस्तेरमुञ्चोऽजागरास्वधि देव एकः । इन्द्र यास्त्वं वृत्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ॥
अ॒पो म॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा॑गरा॒स्वधि॑ दे॒व एक॑: । इन्द्र॒ यास्त्वं वृ॑त्र॒तूर्ये॑ च॒कर्थ॒ ताभि॑र्वि॒श्वायु॑स्त॒न्वं॑ पुपुष्याः ॥
apó mahī́r abhíśaster amuñco ’jā́garāsv ádhi devá ékaḥ | índra yā́s tvaṃ vṛtra-tū́rye cákartha tā́bhir viśvā́yus tanvàṃ pupuṣyāḥ ||
Thou didst release the great Waters from the oppression; the one God stood wakeful over them. O Indra, the Waters by which thou didst act in the Vṛtra-battle—by those mayst thou nourish thy body of universal life.
अ॒पः । म॒हीः । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । अजा॑गः । आ॒सु॒ । अधि॑ । दे॒वः । एकः॑ । इन्द्र॑ । याः । त्वम् । वृ॒त्र॒ऽतूर्ये॑ । च॒कर्थ॑ । ताभिः॑ । वि॒श्वऽआ॑युः । त॒न्व॑म् । पु॒पु॒ष्याः॒ ॥अपः । महीः । अभिशस्तेः । अमुञ्चः । अजागः । आसु । अधि । देवः । एकः । इन्द्र । याः । त्वम् । वृत्रतूर्ये । चकर्थ । ताभिः । विश्वआयुः । तन्वम् । पुपुष्याः ॥apaḥ | mahīḥ | abhi-śasteḥ | amuñcaḥ | ajāgaḥ | āsu | adhi | devaḥ | ekaḥ | indra | yāḥ | tvam | vṛtra-tūrye | cakartha | tābhiḥ | viśva-āyuḥ | tanvam | pupuṣyāḥ