Sukta 10.104
वीरेण्यः क्रतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे । आर्दयद्वृत्रमकृणोदु लोकं ससाहे शक्रः पृतना अभिष्टिः ॥
वी॒रेण्य॒: क्रतु॒रिन्द्र॑: सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे । आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ॥
vīreṇyàḥ krátuḥ índraḥ suśastír utā́pi dhénā puruhūtám īṭṭe | ā́rdayad vṛtrám akṛṇod u lokáṃ sasā́he śakráḥ pṛ́tanā abhiṣṭíḥ ||
Indra, the heroic Will, the well-praised, is invoked; even the nourishing Cow of plenitude hymns the much-called. He crushed Vṛtra; he made the wide world-room. The Mighty One, the victorious onset, overcame the battles.
वी॒रेण्यः॑ । क्रतुः॑ । इन्द्रः॑ । सु॒ऽश॒स्तिः । उ॒त । अपि॑ । धेना॑ । पु॒रु॒ऽहू॒तम् । ई॒ट्टे॒ । आर्द॑यत् । वृ॒त्रम् । अकृ॑णोत् । ऊँ॒ इति॑ । लोक॑म् । स॒स॒हे । श॒क्रः । पृत॑नाः । अ॒भि॒ष्टिः ॥वीरेण्यः । क्रतुः । इन्द्रः । सुशस्तिः । उत । अपि । धेना । पुरुहूतम् । ईट्टे । आर्दयत् । वृत्रम् । अकृणोत् । ऊँ इति । लोकम् । ससहे । शक्रः । पृतनाः । अभिष्टिः ॥vīreṇyaḥ | kratuḥ | indraḥ | su-śastiḥ | uta | api | dhenā | puru-hūtam | īṭe | ādaryat | vṛtram | akṛṇot | oṃ iti | lokam | sasahe | śakraḥ | pṛtanāḥ | abhiṣṭiḥ