Sukta 10.104
उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य । इन्द्र त्वा यज्ञः क्षममाणमानड्दाश्वाँ अस्यध्वरस्य प्रकेतः ॥
उप॒ ब्रह्मा॑णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये॑ सु॒तस्य॑ । इन्द्र॑ त्वा य॒ज्ञः क्षम॑माणमानड्दा॒श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ॥
úpa bráhmāṇi harivo háribhyāṃ sómasya yāhi pītáye sutásya | índra tvā yajñáḥ kṣámamāṇam ā́naḍ dāśvā́m̐ asyádhvarásya prakétaḥ ||
Come near to the sacred formulations, O Hari-possessor, with thy tawny powers; come to drink the pressed Soma. O Indra, the sacrifice calls to thee as one who bears with us and endures; thou art the giver, the clear knower of this journey of offering—make the inner rite luminous and sure.
उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् । सोम॑स्य । या॒हि॒ । पी॒तये॑ । सु॒तस्य॑ । इन्द्र॑ । त्वा॒ । य॒ज्ञः । क्षम॑माणम् । आ॒न॒ट् । दा॒श्वान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः ॥उप । ब्रह्माणि । हरिवः । हरिभ्याम् । सोमस्य । याहि । पीतये । सुतस्य । इन्द्र । त्वा । यज्ञः । क्षममाणम् । आनट् । दाश्वान् । असि । अध्वरस्य । प्रकेतः ॥upa | brahmāṇi | hari-vaḥ | hari-bhyām | somasya | yāhi | pītaye | sutasya | indra | tvā | yajñaḥ | kṣamamāṇam | ānaṭ | dāśvān | asi | adhvarasya | pra-ketaḥ