Sukta 10.104
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः । प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥
ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये॑ण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः । प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्त॑: सध॒माद्या॑सः ॥
ūtī́ śacīvas táva vī́ryeṇa váyo dádhānā uśíja ṛtájñāḥ | prajā́vad índra mánuṣo duróṇe tasthúr gṛṇántaḥ sadhamā́dyāsaḥ ||
By thy help, O master of effective power, bearing strength through thy hero-force, the eager ones who know the Right stand in the human dwelling rich with offspring (creative increase). They have taken their station praising, companions in the shared gladness—so the ordered Truth may be established in the house of man.
ऊ॒ती । श॒ची॒ऽवः॒ । तव॑ । वी॒र्ये॑ण । वयः॑ । दधा॑नाः । उ॒शिजः॑ । ऋ॒त॒ऽज्ञाः । प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑षः । दु॒रो॒णे । त॒स्थुः । गृ॒णन्तः॑ । स॒ध॒ऽमाद्या॑सः ॥ऊती । शचीवः । तव । वीर्येण । वयः । दधानाः । उशिजः । ऋतज्ञाः । प्रजावत् । इन्द्र । मनुषः । दुरोणे । तस्थुः । गृणन्तः । सधमाद्यासः ॥ūtī | śacī-vaḥ | tava | vīryeṇa | vayaḥ | dadhānāḥ | uśijaḥ | ṛta-jñāḥ | prajāvat | indra | manuṣaḥ | duroṇe | tasthuḥ | gṛṇantaḥ | sadha-mādyāsaḥ