Sukta 10.104
प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् । इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥
प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म् । इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भि॒: शच्या॑ गृणा॒नः ॥
prógrāṃ pītíṃ vṛ́ṣṇа iyarmi satyā́ṃ práyai sutásya haryáśva túbhyam | índra dhénābhir ihá mādayasva dhī́bhir víśvābhiḥ śácyā gṛṇānā́ḥ ||
I set in motion the strong and true drinking for the Bull; for thee, O Indra of tawny steeds, for the forward course of the pressed delight. O Indra, rejoice here with the streams of richness and with all the thoughts—praised with thy effective power—so the right action may become luminous and victorious.
प्र । उ॒ग्राम् । पी॒तिम् । वृष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ । ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् । इन्द्र॑ । धेना॑भिः । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भिः । विश्वा॑भिः । शच्या॑ । गृ॒णा॒नः ॥प्र । उग्राम् । पीतिम् । वृष्णे । इयर्मि । सत्याम् । प्रयै । सुतस्य । हरिअश्व । तुभ्यम् । इन्द्र । धेनाभिः । इह । मादयस्व । धीभिः । विश्वाभिः । शच्या । गृणानः ॥pra | ugrām | pītim | vṛṣṇe | iyarmi | satyām | pra-yai | sutasya | hari-aśva | tubhyam | indra | dhenābhiḥ | iha | mādayasva | dhībhiḥ | viśvābhiḥ | śacyā | gṛṇānaḥ