Sukta 10.101
प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् । द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् ॥
प्री॒णी॒ताश्वा॑न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वम् । द्रोणा॑हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण॑म् ॥
prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam | droṇāhāvam avataṃ aśmacakram aṃsatrakośaṃ siñcatā nṛpāṇam ||
Gladden the life-powers (the horses) and win what is set before you; shape indeed the chariot that bears well-being. Pour into the trough of the call, into the well with stone-wheels and firm-held vessel—fill the ‘man-drink’ that sustains our lordly being.
प्री॒णी॒त । अश्वा॑न् । हि॒तम् । ज॒या॒थ॒ । स्व॒स्ति॒ऽवाह॑म् । रथ॑म् । इत् । कृ॒णु॒ध्व॒म् । द्रोण॑ऽआहावम् । अ॒व॒तम् । अश्म॑ऽचक्रम् । अंस॑त्रऽकोशम् । सि॒ञ्च॒त॒ । नृ॒ऽपान॑म् ॥प्रीणीत । अश्वान् । हितम् । जयाथ । स्वस्तिवाहम् । रथम् । इत् । कृणुध्वम् । द्रोणआहावम् । अवतम् । अश्मचक्रम् । अंसत्रकोशम् । सिञ्चत । नृपानम् ॥prīṇīta | aśvān | hitam | jayātha | svasti-vāham | ratham | it | kṛṇudhvam | droṇa-āhāvam | avatam | aśma-cakram | aṃsatra-kośam | siñcata | nṛ-pānam