Sukta 10.101
निराहावान्कृणोतन सं वरत्रा दधातन । सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम् ॥
निरा॑हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन । सि॒ञ्चाम॑हा अव॒तमु॒द्रिणं॑ व॒यं सु॒षेक॒मनु॑पक्षितम् ॥
nirāhāvān kṛṇotana saṃ varatrā dadhātana | siñcāmahā avatam udriṇaṃ vayaṃ suṣekam anupakṣitam ||
Clear out the channels of the call; set the reins in harmony. We would pour the uplifted well within us—well-watered, not diminished—so the inner field of action may be made ready.
निः । आ॒ऽहा॒वान् । कृ॒णो॒त॒न॒ । सम् । व॒र॒त्राः । द॒धा॒त॒न॒ । सि॒ञ्चाम॑है । अ॒व॒तम् । उ॒द्रिण॑म् । व॒यम् । सु॒ऽसेक॑म् । अनु॑पऽक्षितम् ॥निः । आहावान् । कृणोतन । सम् । वरत्राः । दधातन । सिञ्चामहै । अवतम् । उद्रिणम् । वयम् । सुसेकम् । अनुपक्षितम् ॥niḥ | āhāvān | kṛṇotana | sam | varatrāḥ | dadhātana | siñcāmahai | avatam | udriṇam | vayam | su-sekam | anupa-kṣitam