Sukta 10.101
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । धीरा देवेषु सुम्नया ॥
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या ॥
sī́rā yuñjanti kaváyo yugā́ ví tanvate pṛ́thak | dhī́rā devéṣu sumnáyā ||
The seers yoke the ploughs; they spread the yokes apart, each in its place—steadfast in the gods, by the power of goodwill and grace.
सीरा॑ । यु॒ञ्ज॒न्ति॒ । क॒वयः॑ । यु॒गा । वि । त॒न्व॒ते॒ । पृथ॑क् । धीराः॑ । दे॒वेषु॑ । सु॒म्न॒ऽया ॥सीरा । युञ्जन्ति । कवयः । युगा । वि । तन्वते । पृथक् । धीराः । देवेषु । सुम्नया ॥sīrā | yuñjanti | kavayaḥ | yugā | vi | tanvate | pṛthak | dhīrāḥ | deveṣu | sumna-yā