Sukta 10.101
युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् ॥
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्य॑: प॒क्वमेया॑त् ॥
yunákta sī́r hookup? vi yugā́ tanudhvaṃ kṛté yónau vápatehá bī́jam | girā́ ca śruṣṭíḥ sá-bharā ásan no nédīya ít sṛṇyàḥ pakvám éyāt ||
Yoke the ploughs; spread out the yokes. In the prepared womb sow here the seed. Let our call and our ready obedience be with burden-bearing power; then may the ripe gain come near to us swiftly.
यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नु॒ध्व॒म् । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् । गि॒रा । च॒ । श्रु॒ष्टिः । सऽभ॑राः । अस॑त् । नः॒ । नेदी॑यः । इत् । सृ॒ण्यः॑ । प॒क्वम् । आ । इ॒या॒त् ॥युनक्त । सीरा । वि । युगा । तनुध्वम् । कृते । योनौ । वपत । इह । बीजम् । गिरा । च । श्रुष्टिः । सभराः । असत् । नः । नेदीयः । इत् । सृण्यः । पक्वम् । आ । इयात् ॥yunakta | sīrā | vi | yugā | tanudhvam | kṛte | yonau | vapata | iha | bījam | girā | ca | śruṣṭiḥ | sa-bharāḥ | asat | naḥ | nedīyaḥ | it | sṛṇyaḥ | pakvam | ā | iyāt