Sukta 10.101
मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम् । इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः ॥
म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् । इष्कृ॑णुध्व॒मायु॒धारं॑ कृणुध्वं॒ प्राञ्चं॑ य॒ज्ञं प्र ण॑यता सखायः ॥
mandrā́ kṛṇudhvaṃ dhíya ā́ tanudhvaṃ nā́vam aritra-paráṇīṃ kṛṇudhvaṃ | iṣkṛṇudhvam āyudhā́raṃ kṛṇudhvaṃ prā́ñcaṃ yajñáṃ prá ṇayata sakhāyaḥ ||
Make your thoughts glad and widen them; fashion the boat that is carried by the oar. Prepare the arrow; make ready the weapon-bearing power. Lead the sacrifice forward, straight onward, O comrades.
म॒न्द्रा । कृ॒णु॒ध्व॒म् । धियः॑ । आ । त॒नु॒ध्व॒म् । नाव॑म् । अ॒रि॒त्र॒ऽपर॑णीम् । कृ॒णु॒ध्व॒म् । इष्कृ॑णुध्वम् । आयु॒धा । अर॑म् । कृ॒णु॒ध्व॒म् । प्राञ्च॑म् । य॒ज्ञम् । प्र । न॒य॒त॒ । स॒खा॒यः॒ ॥मन्द्रा । कृणुध्वम् । धियः । आ । तनुध्वम् । नावम् । अरित्रपरणीम् । कृणुध्वम् । इष्कृणुध्वम् । आयुधा । अरम् । कृणुध्वम् । प्राञ्चम् । यज्ञम् । प्र । नयत । सखायः ॥mandrā | kṛṇudhvam | dhiyaḥ | ā | tanudhvam | nāvam | aritra-paraṇīm | kṛṇudhvam | iṣkṛṇudhvam | āyudhā | aram | kṛṇudhvam | prāñcam | yajñam | pra | nayata | sakhāyaḥ