Sukta 10.101
उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीळाः । दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः ॥
उद्बु॑ध्यध्वं॒ सम॑नसः सखाय॒: सम॒ग्निमि॑न्ध्वं ब॒हव॒: सनी॑ळाः । द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिन्द्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥
udbúdh-yadhvaṃ sámanasaḥ sakhāyaḥ sám agním indhvaṃ bahávaḥ sanī́ḷāḥ | dadhikrā́m agním uṣásam ca devī́m índrāvato’váse ní hvaye vaḥ ||
Awaken, O comrades of one mind; together kindle the Fire, many of you, sharing one nest. Dadhikrāvan, Agni, and the goddess Dawn—these I call down for help, with Indra as their companion-force.
उत् । बु॒ध्य॒ध्व॒म् । सऽम॑नसः । स॒खा॒यः॒ । सम् । अ॒ग्निम् । इ॒न्ध्व॒म् । ब॒हवः॑ । सऽनी॑ळाः । द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । इ॒न्द्र॒ऽव॒तः । अव॑से । नि । ह्व॒ये॒ । वः॒ ॥उत् । बुध्यध्वम् । समनसः । सखायः । सम् । अग्निम् । इन्ध्वम् । बहवः । सनीळाः । दधिक्राम् । अग्निम् । उषसम् । च । देवीम् । इन्द्रवतः । अवसे । नि । ह्वये । वः ॥ut | budhyadhvam | sa-manasaḥ | sakhāyaḥ | sam | agnim | indhvam | bahavaḥ | sa-nīḷāḥ | dadhi-kṛām | agnim | uṣasam | ca | devīm | indra-vataḥ | avase | ni | hvaye | vaḥ